Posts

Showing posts from July, 2024

2.43

संरुद्धचेष्टस्य मृगेद्र कामं हास्यं वचस्तद्यदहं विवक्षुः। अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये । ।43 । । संरुद्धचेष्टस्य = संरुद्धा प्रतिबद्धा चेष्टा व्यापारः = one whose works is interrupted मृगेद्र = हे सिंह = oh lion कामम् = पर्याप्तम् = enough हास्यम् = परिहासनीयम् = laughable वचः तत् = तत् वचनम् = that statement यत् = वचनम् =  which statement अहम्  = दिलीपः =  I dilipa विवक्षुः = वक्तुम् इच्छुः = I Dilipa wish to say अन्तर्गतम् = हृद्गतम् = internal प्राणभृताम् = प्राणिनाम् = of the living हि = indeed वेद = जानासि= you know सर्वम् = सकलम् = everything भवान् = त्वम् सिंहः = you lion भावम् = अभिप्रायम्= feeling, intent अतः = अस्मात् हेतोः =therefore अभिधास्ये = कथयिष्यामि = i will tell हे सिंहः यद् वचनं वक्तुम् इच्छामि तत् यस्य कार्यं संरुद्धम् तस्य मदृशस्य वचनम् अवश्यम् हास्यं किन्तु त्वं प्राणधारिणाम् मनोगतं सर्वं भावं जानाति अतः कथयिष्यामि

2.42

प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः। जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः॥२-४२॥ प्रत्यब्रवीत् = प्रत्यवदत् = responded च = and एनम् = सिंहम् = to the Lion इषु-प्रयोगे = बाणप्रयोगे =  in the use of the arrow तत्-पूर्व-भङ्गे = first failure वितथ-प्रयत्नः = विफलः आयासः = one whose attempt is failed जडीकृतः = स्तब्धीकृतः = stuck त्र्यम्बक-वीक्षणेन = शिवस्य दृष्टिपातेन = when shiva's sight falls upon someone वज्रम् = कुलिशम् = vajra or the thunderbolt मुमुक्षन् = मोक्तुम् इच्छन् = seeking moksha इव = यथा =  like वज्रपाणिः = वज्रः यस्य हस्ते सः इन्द्रः = the indra who holds the thunderbolt प्रथमवारं बाणप्रयोगे विफलप्रयत्नः शिवस्य दृष्टिमात्रेण  स्तब्धीकृतः इन्द्रः इव स्थितः दिलीपः सिंहाय उत्तरं दत्तवान्।

2.41

इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य। प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार॥२-४१॥ इति = इत्थम् = thus प्रगल्भम् = धृष्टम् = cheeky पुरुष-अधिराजः = पुरुषाणाम् अधिराजः = दिलीपः = dilipa the lord of men मृग-अधिराजस्य = मृगाणाम् अधिराजः = सिंहस्य = of the lion वचः = वचनम् = statement निशम्य = श्रुत्वा = having heard प्रति-आहत-अस्त्रः = दूरीकृतम् अस्त्रं यस्य सः = one whose weapon has been repulsed गिरिश-प्रभावात् = शिवस्य प्रभावात् = due to the influence of shiva आत्मनि अवज्ञाम् = चित्ते अपमानम् = insult to the self शिथिलीचकार = शिथिलीकृतवान् = calmed down सिंहस्य इमां प्रगल्भतां श्रुतवान् दिलीपः दिलीपस्य अस्त्रं शिवस्य प्रभावात् दुरीकृतम् इति अपमानं न मतवान्।

2.40

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः। शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति॥२-४०॥ सः त्वम् = त्वं दिलीपः = You Dilipa निवर्तस्व = परावृतीभव = return विहाय लज्जाम् = लज्जाम् त्यक्त्वा = leaving shame गुरोः = वसिष्ठस्य = of guru Vashishta भवान् = त्वम् = you दर्शित-शिष्य-भक्तिः = दर्शिता शिष्यस्य भक्तिः येन सः = the respect shown by a disciple such as yourself शस्त्रेण = आयुधेन = by a weapon रक्ष्यम् यत् = रक्षणीयम् वस्तु = that which needs to be protected अशक्य-रक्षम् = रक्षितुम् अशक्यम् = something that is unable to be protected न = not तत् यशः = कीर्तीम् = that fame शस्त्र-भृताम् = आयुध-धारिणम् = क्षिणोति = हिनस्ति = harm दिलीप त्वं लज्जां त्यक्त्वा प्रत्यागच्छ। त्वं गुरुं प्रति तव भक्तिं प्रदर्शितवान्। किन्तु रक्षणीयम् वस्तु आयुधेन न रक्षति चेत् आयुध-धारिणः कीर्तिः न नश्यति।

2.39

तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण। उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव॥२-३९॥ तस्य = सिंहस्य = of the lion अलम् = पर्याप्तम् = enough एषा = इयम् = she क्षुधितस्य = बुभुक्षितस्य = of the hungry (lion) तृप्त्यै = सन्तोषाय = for satisfaction प्रदिष्टकाला = निर्दिष्टः समयः यस्याः सा प्रदिष्टकाला = she who reached in time परमेश्वरेण = शिवेन = by Shiva उपस्थिता = प्राप्ता = reached शोणितपारणा = रुधिरस्य व्रतान्तभोजनं यस्याः सा = she whose blood is food मे = मम (सिंहस्य) = of the lion, me सुरद्विषः = सुरान् द्वेष्टि यः तस्य राहोः = of rahu चान्द्रमसी सुधा इव = यथा चन्द्रसम्बन्धि अमृतम् = moon nectar मम भोजनार्थम् एव यथासमयं धेनुरुधिरम् प्रेषितम् शिवेन यथा राहोः कृते चान्द्रमसी सुधा

2.38

तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ। व्यापरितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति॥२-३८॥ तदाप्रभृति एव = तत्कालात् आरभ्य एव = from that day वनद्विपानाम् = वनवासिनां गजानाम् = of wild elephants त्रासार्थम् = भयार्थम् = to ward off अस्मिन् = एतस्मिन् = in this अहम् अद्रिकुक्षौ = गिरिगुहायाम् =  in this cave व्यापरितः = प्रेरितः = appointed शूलभृता = शिवेन = by Lord Shiva विधाय = कृत्वा = having done सिंहत्वम् = सिंहस्य भावः = being a lion अङ्कागतसत्त्ववृत्ति = समीपे आगतान् प्राणिनः भक्षयति यत् = one who consumes beings coming near तत्कालात् आरभ्य एव वनवासिनां गजानां भयार्थम् अहम् अस्यां गिरिगुहायां सिंहः भूत्वा शिवेन नियुक्तः अहम्। समीपे आगतान् भक्षित्वा जीवामि।

2.37

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य। अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः॥२-३७॥ कण्डूयमानेन = कर्षता = while scratching कटम् = कपोलम् = temples of the head कदाचित् = एकदा = once वन्यद्विपेन = आरण्य-गजेन = by the wild elephant उन्मथिता =उत्पाटिता = removed त्वक् = वल्कलम् = skin of the tree, bark अस्य = अस्य देवदारु-वृक्षस्य = of this deodar tree अथ = अनन्तरम् = later एनम् = देवदारु-वृक्षम् = this deodar tree अद्रेः तनया = हिमाचलस्य पुत्री = Goddess Parvati शुशोच = विलापम् अकरोत् = bemoaned सेनान्यम् = कार्तिकेयम् = Commander of armies Kartikeya आलीढम् = क्षतम् = hurt इव =  यथा = as if असुरास्त्रैः = दैत्यानां प्रहारैः = by weapons of demons एकदा कश्चन वन्य-गजः कपोलं कर्षति स्म। देवदारु-वृक्षस्य वल्कलम् निष्कासितम्। पार्वती देवी विलापं कृतवती यथा स्वपुत्रः दैत्य-प्रहारैः क्षतः जातः।

2.36

अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन। यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥२-३६॥ अमुम् = यम् = which पुरः = अग्रे = ahead पश्यसि= sees देवदारुम् = देवदारु-वृक्षम् = the deodar tree पुत्रीकृतः = पुत्रवत् पालितः = made a son असौ = देवदारु-वृक्षः = this deodar tree वृषभ-ध्वजेन = शिवेन = by shiva यः = देवदारु-वृक्षः = deodar tree हेम-कुम्भस्तननिःसृतानाम् = हेम्नः कुम्भ-रूपिभ्यां स्तनाभ्यां निसृतानाम् = of the ones flowing from the gold pot like bossoms स्कन्दस्य = कार्तिकेयस्य = of kartikeya मातुः = जनन्याः = of the mother of kartikeya, parvati पयसाम् = दुग्धानाम् = of the milk रसज्ञः = स्वादस्य ज्ञाता = knower of taste यम् देवदारु-वृक्षम् त्वं पश्यसि सः वृक्षः शिवेन पुत्रवत् पालितः यतोहि सः वृक्षः पार्वती-देव्याः स्तनदुग्धस्य सेवनं कृतवान्।

2.35

कैलासगौरं वृषमारुरक्षोः पादार्पणानुग्रहपूतपृष्ठम्। अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम्॥२-३५ कैलास-गौरम् = कैलसवत् श्वेतम् वृषम् = वृषभम् आरुरक्षोः = आरोढुम् इच्छकस्य पाद-अर्पण-अनुग्रह-पूत-पृष्ठम् = चरणस्य न्यासस्य पवित्रं पृष्ठस्य भागम् अवेहि = जानीहि माम् किङ्करम् = परिचारकम् अष्ट-मूर्तेः = शिवस्य कुम्भोदरम् नाम = कुम्भोदर इति नाम्ना निकुम्भमित्रम् = निकुम्भस्य मित्रम हे राजन् जानीहि यत् अहम् शिवस्य सेवकः कैलसवत् श्वेतः वृषभः। मम नाम कुम्भोदरः। मम मित्रंनिकुम्भः। शिवस्य सेवकः। शिवस्य पादस्य अर्पणात् पवित्रः अहम्।

2.34

अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात्। न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य॥२-३४॥ अलम् महीपाल तव श्रमेण = हे राजन् इतोऽपि श्रमः मास्तु = enough effort o king प्रयुक्तम् अपि = निक्षिप्तम् अपि = released अस्त्रम् = आयुधम् = weapon इतः = अस्मिन् मयि = on me वृथा =व्यर्थम् = futile स्यात् = भवेत् = may be न = नहि = not पादप-उन्मूलन-शक्ति = वृक्षम् उत्पाटयितुम् समर्थम् = that which capable of uprooting trees रंहः = वेगः = speed शिल-उच्चये = उच्च-पर्वते = on the high mountain मूर्च्छति = प्रसरति = to flow मारुतस्य = पवनस्य = of the wind हे राजन् इतोऽपि श्रमः मास्तु। प्रयुक्तम् अस्त्रम् वृथा भवेत्। वृक्षम् उत्पाटयितुम् समर्थे सत्यपि उच्च-पर्वते न प्रसरेत् इति सिंहः अवदत्।

2.33

तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम्। विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः॥२-३३॥ आर्य-गृह्यम् = सतः पक्षे स्थितम् = on the side of the good निगृहीत-धेनुः = येन धेनुः निगृहीता सः सिंहः = the lion that captured the cow मनुष्यवाचा = मानव-ध्वनिना = in a human voice मनु-वंश-केतुम् = मनु-वंशस्य केतु-भूतम् दिलीपम् = the flag-bearer of the race of Manu Dilipa विस्माययन् = विस्मयं प्रापयन् = give a surprise विस्मितम् = आश्चर्येण युक्तम् = surprised आत्मवृत्तौ = स्वकीयायाम् अवस्थायाम् = at one's own condition सिंह-उरु-सत्त्वम् = सिंहेन सदृशः पौरुषम् यस्य तम् दिलीपम् = Dilipa who is as brave as a lion निजगाद = उक्तवान् = said सिंहः = केसरी = Lion दिलीपः सदा साधूनां परित्राणाय तत्परः। सः सिंहवत् धैर्यवान् मनु-वंशस्य शिरोमणिः। स्वकीयायाम् अवस्थायाम् आश्चर्येण युक्तः आसीत् दिलीपः। धेनुः निगृहीतवान् सिंहः दिलीपम् विस्माययन् मानव-ध्वनिना उक्तवान्।

2.32

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः। राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः॥२-३२॥ बाहु-प्रतिष्टम्भ-विवृद्धमन्युः = बाह्वोः प्रतिष्टम्भेन विवृद्धः मन्युः यस्य सः = Dilipa who was angry at his arm being constrained अभ्यर्णम् = सामिप्यम् = near आगस्कृतम् = आगः करोति यः तम् अपराधिनम् = wrongdoer अस्पृशद्भिः = ये न स्पृशन्ति तैः अस्पर्शकरैः = राजा = राजा दिलीपः = The King Dilipa स्वतेजोभिः = स्व-पराक्रमैः = due to his valour अदह्यत = दह्यते स्म = Dilipa blazed अन्तः = अभ्यन्तरम् = internally भोगी = सर्पः = snake इव = यथा = as if मन्त्र-औषधि-रुद्धवीर्यः = मन्त्रैः औषधिभिः रुद्धः(स्तम्भिता) यस्य वीरता सः सर्पः = the snake whose courage is constrained by spells and herbs दिलीपः क्रुद्धः आसीत्। यतोहि तस्य हस्तः स्तम्भितः जातः। मन्त्रैः औषधिभिः रुद्धः(स्तम्भिता) यस्य वीरता सर्पः इव आसीत् दिलीपः। स्वपराक्रमैः दिलीपस्य अन्तर्दहनं जातम् यतोहि समीपे सत्यपि अपराधिनं सिंहं प्रहर्तुं न शक्तवान्।  

2.31

वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे। सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे॥२-३१॥ वाम-इतरः = दक्षिणः = right तस्य = दिलीपस्य = of Dilipa करः = हस्तः = hand प्रहर्तुः = प्रहारकस्य = of the attacker नख-प्रभा-भूषित-कङ्क-पत्रे = नखानां कान्तिना भूषितैः कङ्कस्य पक्षैः युक्ते बाणे = on the arrow with heron's feathers with the glow of the nails (of Dilipa) सक्त-अङ्गुलिः = यस्य अङ्गुलिः सक्तः(लग्नः) सः हस्तः = the hand of which fingers are stuck सायक-पुङ्खे = बाणस्य मृल-प्रदेशे = on feathered grips of the arrow चित्र-अर्पित-आरम्भः = चित्रपटे अर्पितः चित्रकरेण लिखितः आरम्भः यस्य सः हस्तः = the hand drawing a quiver as depicted in a painting इव = यथा = as if अवतस्थे = स्थितः = (the hand) stood दिलीपस्य दक्षिण-हस्तः बाणस्य उद्धरणार्थम् उद्युक्तः आसीत्। हस्तस्य नखैः बाणस्य पक्षाः वर्णिताः जाताः। दिलीपस्य हस्तचालनं तथा आसीत् यथा चित्रे बाणस्य उद्धरणं धनुषि दर्शितम् अस्ति।

2.30

ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः। जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः॥ २-३० ततः = तत् पश्चात् = after that मृगेन्द्रस्य = सिंहस्य = of the lion मृगेन्द्र-गामी = यः सिंहः इव गच्छति सः दिलीपः वधाय = हननार्थम् = to kill वध्यस्य = यः वधम् अर्हति तस्य  = of the one that deserved to be killed the Lion शरम् = बाणम् = an arrow शरण्यः = रक्षकः = the protector Dilipa जाताभिषङ्गः = यस्य जातः(अभवत्) अभिषङ्गः(पराभूतिः) सः = one who was embarrassed (for having his attention diverted) (Dilipa) नृपतिः = राजा दिलीपः  = The King Dilipa निषङ्गात् = तूणीरात् =  from the quiver उद्धर्तुम् = निष्कासयितुम् =  to remove ऐच्छत् = (बाणम् निष्कासयितुम्) इष्टवान् (दिलीपः) = Dilip wished to take an arrow from the quiver प्रसभ-उद्धृत-अरिः = येन बलात् निष्कासिताः शत्रवः सः दिलीपः = Dilipa the one who removed his enemies using force दिलीपः सिंहं मारयितुं तूणीरात् शरम् निष्कासयितुम् ऐच्छत्।

2.29

स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श। अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम्॥ २-२९ सः = दिलीपः = Dilipa पाटलायाम् गवि = ताम्रवर्णायाम् धेन्वाम् नन्दिन्याम् = on the reddis cow Nandini तस्थिवांसम् = (नन्दिन्याम्) स्थितवन्तं (सिंहम्) = the lion that was situated on Nandini धनुर्धरः = दिलीपः यः धनु धारितवान् = the archer Dilipa केसरिणम् = सिंहम् = the lion ददर्श = (दिलीपः) अपश्यत् (सिंहम्) = Dilip saw the lion अधित्यकायाम् = ऊर्ध्वभूमौ = on raised ground इव = यथा = as if धातुमय्याम् = यस्यां धातवः प्राचुर्येण लब्धाः तस्याम् = on that which has metals लोध्रद्रुमम् = लोध्रनामानं वृक्षम् = Lodhra tree सानुमतः = पर्वतस्य = on the mountain प्रफुल्लम् = विकसितम् = well-developed or fully-grown दिलीपः नन्दिन्याः उपरि स्थितं सिंहं दृष्टवान्। यथा धातुभिः युक्तस्य पर्वतस्य ऊर्ध्वभूमौ लोध्र-वृक्षः तिष्ठति।

2.28

तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम्। रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम्॥ २-२८ तदीयम् आक्रन्दितम् = तस्याः नन्दिन्याः क्रन्दनम् = Nandini's cries आर्त-साधोः = आर्तानां(बाधितानां) कृते साधुः यः दिलीपः तस्य = of the one (Dilipa) who is kind to the needy गुहा-निबद्ध-प्रतिशब्द-दीर्घम् = गुहायां निगृहीतेन प्रतिशब्देन दीर्घं यत् जातं तम् आक्रन्दितम् = the voice that is lengthened by the resound of the voice stuck in the cave रश्मिषु = प्रग्रहेषु = in the reins इव = यथा = as if आदाय = (दृष्टिम्) आकृष्य (क्रन्दनम्) = the voice having pulled the vision नग-इन्द्र-सक्ताम् = पर्वते स्थापिताम् (दृष्टिम्) = (the vision that was) focused on the mountain निवर्तयामास = (दृष्टिम्) परावर्तितवत् (क्रन्दनम्) = the sound pulled the vision नृपस्य = दिलीपस्य = of Dilipa's दृष्टिम् = दर्शनम् = the vision, seeing तस्याः नन्दिन्याः क्रन्दनस्य प्रतिध्वनिः श्रुता राज्ञा दिलीपेन। यथा सारथिः धावन्तम् अश्वं प्रग्रहैः आकृष्य निवर्त्तयति तथैव राज्ञः दिलिपस्य दृष्टिः तत् क्र...

2.27

सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन। अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष॥ २-२७ सा = नन्दिनी = the daughter of Kamadhenu, Nandini दुष्प्रधर्षा मनसा अपि =  यस्याः उपरि (घातुकानाम्) आक्रमणं न भवेत् इति दिलीपस्य मनसि आसीत् सा नन्दिनी = in Dilipa's mind he thought Nandini to be impervious to attack हिंस्रैः = घातुकैः = by violent beings इति = हेतोः = as such अद्रि-शोभा-प्रहित-ईक्षणेन = पर्वतस्य शोभाम् अवलोकयितुं नेत्रे यस्य तेन दिलीपेन = by Dilipa who was engrossed in observing the mountain अलक्षित-अभ्युत्पतनः = यः कोऽपि अदृष्टम् कस्यचित् उपरि आक्रमणं कुर्वन् सः = the one who stealthily acctacked something (Lion attacked Nandini stealthily) नृपेण = राज्ञा दिलीपेन = By King Dilipa प्रसह्य = हठात् = suddenly सिंहः किल =  Lion indeed ताम्  चकर्ष = (सिंहः) नन्दिनीम् आकृष्टवान् = the lion pulled Nandini दिलीपः चिन्तितवान् यत् नन्दिन्याः उपरि आक्रमणम् अशक्यम् अस्ति। अतएव सः पर्वतस्य सौन्दर्यस्य दर्शने निरतः आसीत्। किन्तु अकस्मादेव कोऽपि सिंहः नन...

2.26

अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश॥ अन्येद्युः = अग्रिमे दिवसे = the next day (the 22nd day) आत्मा+अनुचरस्य = स्वस्य अनुसरणं कुर्वतः दिलीपस्य = of the follower of the self(Dilipa) भावम् = अभिप्रायम् = intent जिज्ञासमाना = ज्ञातुम् इच्छति = Nandini wished to know मुनि-होम-धेनुः = मुनेः होमार्थम् घृतम् ददाति या धेनुः सा नन्दिनी = THe cow Nandini that made Homa of the Rishi Vashishta possible by offering ghee गङ्गा-प्रपात-अन्त-विरूढ-शष्पम् = गङ्गानद्याः पतनस्य प्रदेशस्य समीपे उत्पन्नम् बाल-तृणेन युक्तम् गह्वरम् = in the cavern at the edge of the waterfall where the river Ganga began where small grass grew गौरी-गुरोः = पार्वत्याः पितुः = पर्वतस्य = of the father of Goddess Parvati, Parvata गह्वरम् = गुहायाम् = in the cavern आविवेश = प्रवेशम् अकरोत् = entered अग्रिमे दिवसे दिलीपस्य अभिप्रायम् ज्ञातुम् इच्छति स्म। नन्दिनी गङ्गाद्वारे तृणयुतायां गुहायाम् प्रवेशम् अकरोत्।

2.25

इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः। सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य॥ २-२५ इत्थम् = अनेन प्रकारेण = in this way व्रतम् = गोसेवारूपम् व्रतम् = the vow of serving the cow Nandini धारयतः = दधतः = carried out प्रजार्थम् = सन्तानार्थम् = for the sake of progeny समम् महिष्या = राजपत्न्या सुदक्षिणया सह = with the royal wife Sudakshina महनीय-कीर्तेः = यस्य महती कीर्तिः तस्य = of the one with great fame, Dilipa सप्त(7) व्यतीयुः(spent) त्रिगुणानि(3 times) तस्य(his) दिनानि(days) = 3*7 (21) दिवसाः गतवन्तः दिलीपस्य दीन-उद्धरण-उचितस्य = दीनजनानां रक्षणे रतस्य दिलीपस्य   अनेन प्रकारेण सन्तानं प्राप्तुं एकविंशति-दिनानि यावत् गोसेवां निरूढवान् दिलीपः

2.24

तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः। क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत्॥ २-२४ ताम् = नन्दिनीम् = Nandini अन्तिक-न्यस्त-बलिप्रदीपाम् = समीपे स्थापितां पूजोपकरणस्य दीपाम् = Nandini near whom was placed the left over worship material and lamp अन्वास्य = दिलीपः अनूपविश्य (नन्दिनीम्) = (Dilipa) having sat down after someone (Nandini) गोप्ता = रक्षकः दिलीपः = the protector Dilipa गृहिणी-सहायः = पत्न्या सहितः दिलीपः = Dilipa along with his wife क्रमेण = क्रमशः = gradually सुप्ताम् = शयनं कृतवतीम् (नन्दिनीम् अनुगम्य) = the sleeping Nandini अनु = पश्चात् = after संविवेश = शयनं कृतवान् दिलीपः = Dilipa slept सुप्त-उत्थिताम् = शयनात् उत्थिताम् (नन्दिनीम् अनुगम्य) = got up from sleep Nandini प्रातः = प्रभाते = in the morning अनु = पश्चात् = after उदतिष्ठत् = उत्थितवान् दिलीपः = Dilipa got up यदा नन्दिनी स्थापिता पूजोपकरणस्य पार्श्वे उपविष्टवती तदा राजा दिलीपः अपि उपविष्टवान्। यदा नन्दिनी सुप्तवती तदा राजा दिलीपः अपि पत्न्या सहितः सुप्तवान्। प्रभाते यदा सा उत...