2.42

प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः। जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः॥२-४२॥
  • प्रत्यब्रवीत् = प्रत्यवदत् = responded
  • च = and
  • एनम् = सिंहम् = to the Lion
  • इषु-प्रयोगे = बाणप्रयोगे =  in the use of the arrow
  • तत्-पूर्व-भङ्गे = first failure
  • वितथ-प्रयत्नः = विफलः आयासः = one whose attempt is failed
  • जडीकृतः = स्तब्धीकृतः = stuck
  • त्र्यम्बक-वीक्षणेन = शिवस्य दृष्टिपातेन = when shiva's sight falls upon someone
  • वज्रम् = कुलिशम् = vajra or the thunderbolt
  • मुमुक्षन् = मोक्तुम् इच्छन् = seeking moksha
  • इव = यथा =  like
  • वज्रपाणिः = वज्रः यस्य हस्ते सः इन्द्रः = the indra who holds the thunderbolt
प्रथमवारं बाणप्रयोगे विफलप्रयत्नः शिवस्य दृष्टिमात्रेण  स्तब्धीकृतः इन्द्रः इव स्थितः दिलीपः सिंहाय उत्तरं दत्तवान्।

Comments

Popular posts from this blog

2.22

2.35

2.24