2.43
संरुद्धचेष्टस्य मृगेद्र कामं हास्यं वचस्तद्यदहं विवक्षुः। अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये।।43।।
- संरुद्धचेष्टस्य = संरुद्धा प्रतिबद्धा चेष्टा व्यापारः = one whose works is interrupted
- मृगेद्र = हे सिंह = oh lion
- कामम् = पर्याप्तम् = enough
- हास्यम् = परिहासनीयम् = laughable
- वचः तत् = तत् वचनम् = that statement
- यत् = वचनम् = which statement
- अहम् = दिलीपः = I dilipa
- विवक्षुः = वक्तुम् इच्छुः = I Dilipa wish to say
- अन्तर्गतम् = हृद्गतम् = internal
- प्राणभृताम् = प्राणिनाम् = of the living
- हि = indeed
- वेद = जानासि= you know
- सर्वम् = सकलम् = everything
- भवान् = त्वम् सिंहः = you lion
- भावम् = अभिप्रायम्= feeling, intent
- अतः = अस्मात् हेतोः =therefore
- अभिधास्ये = कथयिष्यामि = i will tell
हे सिंहः यद् वचनं वक्तुम् इच्छामि तत् यस्य कार्यं संरुद्धम् तस्य मदृशस्य वचनम् अवश्यम् हास्यं किन्तु त्वं प्राणधारिणाम् मनोगतं सर्वं भावं जानाति अतः कथयिष्यामि
Comments
Post a Comment