2.27
सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन। अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष॥ २-२७
- सा = नन्दिनी = the daughter of Kamadhenu, Nandini
- दुष्प्रधर्षा मनसा अपि = यस्याः उपरि (घातुकानाम्) आक्रमणं न भवेत् इति दिलीपस्य मनसि आसीत् सा नन्दिनी = in Dilipa's mind he thought Nandini to be impervious to attack
- हिंस्रैः = घातुकैः = by violent beings
- इति = हेतोः = as such
- अद्रि-शोभा-प्रहित-ईक्षणेन = पर्वतस्य शोभाम् अवलोकयितुं नेत्रे यस्य तेन दिलीपेन = by Dilipa who was engrossed in observing the mountain
- अलक्षित-अभ्युत्पतनः = यः कोऽपि अदृष्टम् कस्यचित् उपरि आक्रमणं कुर्वन् सः = the one who stealthily acctacked something (Lion attacked Nandini stealthily)
- नृपेण = राज्ञा दिलीपेन = By King Dilipa
- प्रसह्य = हठात् = suddenly
- सिंहः किल = Lion indeed
- ताम् चकर्ष = (सिंहः) नन्दिनीम् आकृष्टवान् = the lion pulled Nandini
Comments
Post a Comment