2.31
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे। सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे॥२-३१॥
- वाम-इतरः = दक्षिणः = right
- तस्य = दिलीपस्य = of Dilipa
- करः = हस्तः = hand
- प्रहर्तुः = प्रहारकस्य = of the attacker
- नख-प्रभा-भूषित-कङ्क-पत्रे = नखानां कान्तिना भूषितैः कङ्कस्य पक्षैः युक्ते बाणे = on the arrow with heron's feathers with the glow of the nails (of Dilipa)
- सक्त-अङ्गुलिः = यस्य अङ्गुलिः सक्तः(लग्नः) सः हस्तः = the hand of which fingers are stuck
- सायक-पुङ्खे = बाणस्य मृल-प्रदेशे = on feathered grips of the arrow
- चित्र-अर्पित-आरम्भः = चित्रपटे अर्पितः चित्रकरेण लिखितः आरम्भः यस्य सः हस्तः = the hand drawing a quiver as depicted in a painting
- इव = यथा = as if
- अवतस्थे = स्थितः = (the hand) stood
दिलीपस्य दक्षिण-हस्तः बाणस्य उद्धरणार्थम् उद्युक्तः आसीत्। हस्तस्य नखैः बाणस्य पक्षाः वर्णिताः जाताः। दिलीपस्य हस्तचालनं तथा आसीत् यथा चित्रे बाणस्य उद्धरणं धनुषि दर्शितम् अस्ति।
Comments
Post a Comment