2.33

तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम्। विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः॥२-३३॥
  • आर्य-गृह्यम् = सतः पक्षे स्थितम् = on the side of the good
  • निगृहीत-धेनुः = येन धेनुः निगृहीता सः सिंहः = the lion that captured the cow
  • मनुष्यवाचा = मानव-ध्वनिना = in a human voice
  • मनु-वंश-केतुम् = मनु-वंशस्य केतु-भूतम् दिलीपम् = the flag-bearer of the race of Manu Dilipa
  • विस्माययन् = विस्मयं प्रापयन् = give a surprise
  • विस्मितम् = आश्चर्येण युक्तम् = surprised
  • आत्मवृत्तौ = स्वकीयायाम् अवस्थायाम् = at one's own condition
  • सिंह-उरु-सत्त्वम् = सिंहेन सदृशः पौरुषम् यस्य तम् दिलीपम् = Dilipa who is as brave as a lion
  • निजगाद = उक्तवान् = said
  • सिंहः = केसरी = Lion
दिलीपः सदा साधूनां परित्राणाय तत्परः। सः सिंहवत् धैर्यवान् मनु-वंशस्य शिरोमणिः। स्वकीयायाम् अवस्थायाम् आश्चर्येण युक्तः आसीत् दिलीपः। धेनुः निगृहीतवान् सिंहः दिलीपम् विस्माययन् मानव-ध्वनिना उक्तवान्।

Comments

Popular posts from this blog

2.22

2.35

2.24