2.35

कैलासगौरं वृषमारुरक्षोः पादार्पणानुग्रहपूतपृष्ठम्।
अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम्॥२-३५
  • कैलास-गौरम् = कैलसवत् श्वेतम्
  • वृषम् = वृषभम्
  • आरुरक्षोः = आरोढुम् इच्छकस्य
  • पाद-अर्पण-अनुग्रह-पूत-पृष्ठम् = चरणस्य न्यासस्य पवित्रं पृष्ठस्य भागम्
  • अवेहि = जानीहि
  • माम्
  • किङ्करम् = परिचारकम्
  • अष्ट-मूर्तेः = शिवस्य
  • कुम्भोदरम् नाम = कुम्भोदर इति नाम्ना
  • निकुम्भमित्रम् = निकुम्भस्य मित्रम

हे राजन् जानीहि यत् अहम् शिवस्य सेवकः कैलसवत् श्वेतः वृषभः। मम नाम कुम्भोदरः। मम मित्रंनिकुम्भः। शिवस्य सेवकः। शिवस्य पादस्य अर्पणात् पवित्रः अहम्।

Comments

Popular posts from this blog

2.22

2.24