2.30

ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः। जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः॥ २-३०
  • ततः = तत् पश्चात् = after that
  • मृगेन्द्रस्य = सिंहस्य = of the lion
  • मृगेन्द्र-गामी = यः सिंहः इव गच्छति सः दिलीपः
  • वधाय = हननार्थम् = to kill
  • वध्यस्य = यः वधम् अर्हति तस्य  = of the one that deserved to be killed the Lion
  • शरम् = बाणम् = an arrow
  • शरण्यः = रक्षकः = the protector Dilipa
  • जाताभिषङ्गः = यस्य जातः(अभवत्) अभिषङ्गः(पराभूतिः) सः = one who was embarrassed (for having his attention diverted) (Dilipa)
  • नृपतिः = राजा दिलीपः  = The King Dilipa
  • निषङ्गात् = तूणीरात् =  from the quiver
  • उद्धर्तुम् = निष्कासयितुम् =  to remove
  • ऐच्छत् = (बाणम् निष्कासयितुम्) इष्टवान् (दिलीपः) = Dilip wished to take an arrow from the quiver
  • प्रसभ-उद्धृत-अरिः = येन बलात् निष्कासिताः शत्रवः सः दिलीपः = Dilipa the one who removed his enemies using force
दिलीपः सिंहं मारयितुं तूणीरात् शरम् निष्कासयितुम् ऐच्छत्।

Comments

Popular posts from this blog

2.22

2.35

2.24