2.37

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य। अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः॥२-३७॥
  • कण्डूयमानेन = कर्षता = while scratching
  • कटम् = कपोलम् = temples of the head
  • कदाचित् = एकदा = once
  • वन्यद्विपेन = आरण्य-गजेन = by the wild elephant
  • उन्मथिता =उत्पाटिता = removed
  • त्वक् = वल्कलम् = skin of the tree, bark
  • अस्य = अस्य देवदारु-वृक्षस्य = of this deodar tree
  • अथ = अनन्तरम् = later
  • एनम् = देवदारु-वृक्षम् = this deodar tree
  • अद्रेः तनया = हिमाचलस्य पुत्री = Goddess Parvati
  • शुशोच = विलापम् अकरोत् = bemoaned
  • सेनान्यम् = कार्तिकेयम् = Commander of armies Kartikeya
  • आलीढम् = क्षतम् = hurt
  • इव =  यथा = as if
  • असुरास्त्रैः = दैत्यानां प्रहारैः = by weapons of demons

एकदा कश्चन वन्य-गजः कपोलं कर्षति स्म। देवदारु-वृक्षस्य वल्कलम् निष्कासितम्। पार्वती देवी विलापं कृतवती यथा स्वपुत्रः दैत्य-प्रहारैः क्षतः जातः।

Comments

Popular posts from this blog

2.22

2.35

2.24