2.36

अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन। यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥२-३६॥
  • अमुम् = यम् = which
  • पुरः = अग्रे = ahead
  • पश्यसि= sees
  • देवदारुम् = देवदारु-वृक्षम् = the deodar tree
  • पुत्रीकृतः = पुत्रवत् पालितः = made a son
  • असौ = देवदारु-वृक्षः = this deodar tree
  • वृषभ-ध्वजेन = शिवेन = by shiva
  • यः = देवदारु-वृक्षः = deodar tree
  • हेम-कुम्भस्तननिःसृतानाम् = हेम्नः कुम्भ-रूपिभ्यां स्तनाभ्यां निसृतानाम् = of the ones flowing from the gold pot like bossoms
  • स्कन्दस्य = कार्तिकेयस्य = of kartikeya
  • मातुः = जनन्याः = of the mother of kartikeya, parvati
  • पयसाम् = दुग्धानाम् = of the milk
  • रसज्ञः = स्वादस्य ज्ञाता = knower of taste

यम् देवदारु-वृक्षम् त्वं पश्यसि सः वृक्षः शिवेन पुत्रवत् पालितः यतोहि सः वृक्षः पार्वती-देव्याः स्तनदुग्धस्य सेवनं कृतवान्।

Comments

Popular posts from this blog

2.22

2.35

2.24