2.26
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश॥
- अन्येद्युः = अग्रिमे दिवसे = the next day (the 22nd day)
- आत्मा+अनुचरस्य = स्वस्य अनुसरणं कुर्वतः दिलीपस्य = of the follower of the self(Dilipa)
- भावम् = अभिप्रायम् = intent
- जिज्ञासमाना = ज्ञातुम् इच्छति = Nandini wished to know
- मुनि-होम-धेनुः = मुनेः होमार्थम् घृतम् ददाति या धेनुः सा नन्दिनी = THe cow Nandini that made Homa of the Rishi Vashishta possible by offering ghee
- गङ्गा-प्रपात-अन्त-विरूढ-शष्पम् = गङ्गानद्याः पतनस्य प्रदेशस्य समीपे उत्पन्नम् बाल-तृणेन युक्तम् गह्वरम् = in the cavern at the edge of the waterfall where the river Ganga began where small grass grew
- गौरी-गुरोः = पार्वत्याः पितुः = पर्वतस्य = of the father of Goddess Parvati, Parvata
- गह्वरम् = गुहायाम् = in the cavern
- आविवेश = प्रवेशम् अकरोत् = entered
अग्रिमे दिवसे दिलीपस्य अभिप्रायम् ज्ञातुम् इच्छति स्म। नन्दिनी गङ्गाद्वारे तृणयुतायां गुहायाम् प्रवेशम् अकरोत्।
Comments
Post a Comment