2.29
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श। अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम्॥ २-२९
- सः = दिलीपः = Dilipa
- पाटलायाम् गवि = ताम्रवर्णायाम् धेन्वाम् नन्दिन्याम् = on the reddis cow Nandini
- तस्थिवांसम् = (नन्दिन्याम्) स्थितवन्तं (सिंहम्) = the lion that was situated on Nandini
- धनुर्धरः = दिलीपः यः धनु धारितवान् = the archer Dilipa
- केसरिणम् = सिंहम् = the lion
- ददर्श = (दिलीपः) अपश्यत् (सिंहम्) = Dilip saw the lion
- अधित्यकायाम् = ऊर्ध्वभूमौ = on raised ground
- इव = यथा = as if
- धातुमय्याम् = यस्यां धातवः प्राचुर्येण लब्धाः तस्याम् = on that which has metals
- लोध्रद्रुमम् = लोध्रनामानं वृक्षम् = Lodhra tree
- सानुमतः = पर्वतस्य = on the mountain
- प्रफुल्लम् = विकसितम् = well-developed or fully-grown
दिलीपः नन्दिन्याः उपरि स्थितं सिंहं दृष्टवान्। यथा धातुभिः युक्तस्य पर्वतस्य ऊर्ध्वभूमौ लोध्र-वृक्षः तिष्ठति।
Comments
Post a Comment