Posts

2.43

संरुद्धचेष्टस्य मृगेद्र कामं हास्यं वचस्तद्यदहं विवक्षुः। अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये । ।43 । । संरुद्धचेष्टस्य = संरुद्धा प्रतिबद्धा चेष्टा व्यापारः = one whose works is interrupted मृगेद्र = हे सिंह = oh lion कामम् = पर्याप्तम् = enough हास्यम् = परिहासनीयम् = laughable वचः तत् = तत् वचनम् = that statement यत् = वचनम् =  which statement अहम्  = दिलीपः =  I dilipa विवक्षुः = वक्तुम् इच्छुः = I Dilipa wish to say अन्तर्गतम् = हृद्गतम् = internal प्राणभृताम् = प्राणिनाम् = of the living हि = indeed वेद = जानासि= you know सर्वम् = सकलम् = everything भवान् = त्वम् सिंहः = you lion भावम् = अभिप्रायम्= feeling, intent अतः = अस्मात् हेतोः =therefore अभिधास्ये = कथयिष्यामि = i will tell हे सिंहः यद् वचनं वक्तुम् इच्छामि तत् यस्य कार्यं संरुद्धम् तस्य मदृशस्य वचनम् अवश्यम् हास्यं किन्तु त्वं प्राणधारिणाम् मनोगतं सर्वं भावं जानाति अतः कथयिष्यामि

2.42

प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः। जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः॥२-४२॥ प्रत्यब्रवीत् = प्रत्यवदत् = responded च = and एनम् = सिंहम् = to the Lion इषु-प्रयोगे = बाणप्रयोगे =  in the use of the arrow तत्-पूर्व-भङ्गे = first failure वितथ-प्रयत्नः = विफलः आयासः = one whose attempt is failed जडीकृतः = स्तब्धीकृतः = stuck त्र्यम्बक-वीक्षणेन = शिवस्य दृष्टिपातेन = when shiva's sight falls upon someone वज्रम् = कुलिशम् = vajra or the thunderbolt मुमुक्षन् = मोक्तुम् इच्छन् = seeking moksha इव = यथा =  like वज्रपाणिः = वज्रः यस्य हस्ते सः इन्द्रः = the indra who holds the thunderbolt प्रथमवारं बाणप्रयोगे विफलप्रयत्नः शिवस्य दृष्टिमात्रेण  स्तब्धीकृतः इन्द्रः इव स्थितः दिलीपः सिंहाय उत्तरं दत्तवान्।

2.41

इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य। प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार॥२-४१॥ इति = इत्थम् = thus प्रगल्भम् = धृष्टम् = cheeky पुरुष-अधिराजः = पुरुषाणाम् अधिराजः = दिलीपः = dilipa the lord of men मृग-अधिराजस्य = मृगाणाम् अधिराजः = सिंहस्य = of the lion वचः = वचनम् = statement निशम्य = श्रुत्वा = having heard प्रति-आहत-अस्त्रः = दूरीकृतम् अस्त्रं यस्य सः = one whose weapon has been repulsed गिरिश-प्रभावात् = शिवस्य प्रभावात् = due to the influence of shiva आत्मनि अवज्ञाम् = चित्ते अपमानम् = insult to the self शिथिलीचकार = शिथिलीकृतवान् = calmed down सिंहस्य इमां प्रगल्भतां श्रुतवान् दिलीपः दिलीपस्य अस्त्रं शिवस्य प्रभावात् दुरीकृतम् इति अपमानं न मतवान्।

2.40

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः। शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति॥२-४०॥ सः त्वम् = त्वं दिलीपः = You Dilipa निवर्तस्व = परावृतीभव = return विहाय लज्जाम् = लज्जाम् त्यक्त्वा = leaving shame गुरोः = वसिष्ठस्य = of guru Vashishta भवान् = त्वम् = you दर्शित-शिष्य-भक्तिः = दर्शिता शिष्यस्य भक्तिः येन सः = the respect shown by a disciple such as yourself शस्त्रेण = आयुधेन = by a weapon रक्ष्यम् यत् = रक्षणीयम् वस्तु = that which needs to be protected अशक्य-रक्षम् = रक्षितुम् अशक्यम् = something that is unable to be protected न = not तत् यशः = कीर्तीम् = that fame शस्त्र-भृताम् = आयुध-धारिणम् = क्षिणोति = हिनस्ति = harm दिलीप त्वं लज्जां त्यक्त्वा प्रत्यागच्छ। त्वं गुरुं प्रति तव भक्तिं प्रदर्शितवान्। किन्तु रक्षणीयम् वस्तु आयुधेन न रक्षति चेत् आयुध-धारिणः कीर्तिः न नश्यति।

2.39

तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण। उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव॥२-३९॥ तस्य = सिंहस्य = of the lion अलम् = पर्याप्तम् = enough एषा = इयम् = she क्षुधितस्य = बुभुक्षितस्य = of the hungry (lion) तृप्त्यै = सन्तोषाय = for satisfaction प्रदिष्टकाला = निर्दिष्टः समयः यस्याः सा प्रदिष्टकाला = she who reached in time परमेश्वरेण = शिवेन = by Shiva उपस्थिता = प्राप्ता = reached शोणितपारणा = रुधिरस्य व्रतान्तभोजनं यस्याः सा = she whose blood is food मे = मम (सिंहस्य) = of the lion, me सुरद्विषः = सुरान् द्वेष्टि यः तस्य राहोः = of rahu चान्द्रमसी सुधा इव = यथा चन्द्रसम्बन्धि अमृतम् = moon nectar मम भोजनार्थम् एव यथासमयं धेनुरुधिरम् प्रेषितम् शिवेन यथा राहोः कृते चान्द्रमसी सुधा

2.38

तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ। व्यापरितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति॥२-३८॥ तदाप्रभृति एव = तत्कालात् आरभ्य एव = from that day वनद्विपानाम् = वनवासिनां गजानाम् = of wild elephants त्रासार्थम् = भयार्थम् = to ward off अस्मिन् = एतस्मिन् = in this अहम् अद्रिकुक्षौ = गिरिगुहायाम् =  in this cave व्यापरितः = प्रेरितः = appointed शूलभृता = शिवेन = by Lord Shiva विधाय = कृत्वा = having done सिंहत्वम् = सिंहस्य भावः = being a lion अङ्कागतसत्त्ववृत्ति = समीपे आगतान् प्राणिनः भक्षयति यत् = one who consumes beings coming near तत्कालात् आरभ्य एव वनवासिनां गजानां भयार्थम् अहम् अस्यां गिरिगुहायां सिंहः भूत्वा शिवेन नियुक्तः अहम्। समीपे आगतान् भक्षित्वा जीवामि।

2.37

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य। अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः॥२-३७॥ कण्डूयमानेन = कर्षता = while scratching कटम् = कपोलम् = temples of the head कदाचित् = एकदा = once वन्यद्विपेन = आरण्य-गजेन = by the wild elephant उन्मथिता =उत्पाटिता = removed त्वक् = वल्कलम् = skin of the tree, bark अस्य = अस्य देवदारु-वृक्षस्य = of this deodar tree अथ = अनन्तरम् = later एनम् = देवदारु-वृक्षम् = this deodar tree अद्रेः तनया = हिमाचलस्य पुत्री = Goddess Parvati शुशोच = विलापम् अकरोत् = bemoaned सेनान्यम् = कार्तिकेयम् = Commander of armies Kartikeya आलीढम् = क्षतम् = hurt इव =  यथा = as if असुरास्त्रैः = दैत्यानां प्रहारैः = by weapons of demons एकदा कश्चन वन्य-गजः कपोलं कर्षति स्म। देवदारु-वृक्षस्य वल्कलम् निष्कासितम्। पार्वती देवी विलापं कृतवती यथा स्वपुत्रः दैत्य-प्रहारैः क्षतः जातः।