2.38
तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ। व्यापरितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति॥२-३८॥
- तदाप्रभृति एव = तत्कालात् आरभ्य एव = from that day
- वनद्विपानाम् = वनवासिनां गजानाम् = of wild elephants
- त्रासार्थम् = भयार्थम् = to ward off
- अस्मिन् = एतस्मिन् = in this
- अहम्
- अद्रिकुक्षौ = गिरिगुहायाम् = in this cave
- व्यापरितः = प्रेरितः = appointed
- शूलभृता = शिवेन = by Lord Shiva
- विधाय = कृत्वा = having done
- सिंहत्वम् = सिंहस्य भावः = being a lion
- अङ्कागतसत्त्ववृत्ति = समीपे आगतान् प्राणिनः भक्षयति यत् = one who consumes beings coming near
तत्कालात् आरभ्य एव वनवासिनां गजानां भयार्थम् अहम् अस्यां गिरिगुहायां सिंहः भूत्वा शिवेन नियुक्तः अहम्। समीपे आगतान् भक्षित्वा जीवामि।
Comments
Post a Comment