2.24

तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः। क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत्॥ २-२४

  • ताम् = नन्दिनीम् = Nandini
  • अन्तिक-न्यस्त-बलिप्रदीपाम् = समीपे स्थापितां पूजोपकरणस्य दीपाम् = Nandini near whom was placed the left over worship material and lamp
  • अन्वास्य = दिलीपः अनूपविश्य (नन्दिनीम्) = (Dilipa) having sat down after someone (Nandini)
  • गोप्ता = रक्षकः दिलीपः = the protector Dilipa
  • गृहिणी-सहायः = पत्न्या सहितः दिलीपः = Dilipa along with his wife
  • क्रमेण = क्रमशः = gradually
  • सुप्ताम् = शयनं कृतवतीम् (नन्दिनीम् अनुगम्य) = the sleeping Nandini
  • अनु = पश्चात् = after
  • संविवेश = शयनं कृतवान् दिलीपः = Dilipa slept
  • सुप्त-उत्थिताम् = शयनात् उत्थिताम् (नन्दिनीम् अनुगम्य) = got up from sleep Nandini
  • प्रातः = प्रभाते = in the morning
  • अनु = पश्चात् = after
  • उदतिष्ठत् = उत्थितवान् दिलीपः = Dilipa got up

यदा नन्दिनी स्थापिता पूजोपकरणस्य पार्श्वे उपविष्टवती तदा राजा दिलीपः अपि उपविष्टवान्। यदा नन्दिनी सुप्तवती तदा राजा दिलीपः अपि पत्न्या सहितः सुप्तवान्। प्रभाते यदा सा उत्थितवती तदा राजा दिलीपः अपि उत्थितवान्।

Comments

Popular posts from this blog

2.22

2.35