2.28
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम्। रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम्॥ २-२८
- तदीयम् आक्रन्दितम् = तस्याः नन्दिन्याः क्रन्दनम् = Nandini's cries
- आर्त-साधोः = आर्तानां(बाधितानां) कृते साधुः यः दिलीपः तस्य = of the one (Dilipa) who is kind to the needy
- गुहा-निबद्ध-प्रतिशब्द-दीर्घम् = गुहायां निगृहीतेन प्रतिशब्देन दीर्घं यत् जातं तम् आक्रन्दितम् = the voice that is lengthened by the resound of the voice stuck in the cave
- रश्मिषु = प्रग्रहेषु = in the reins
- इव = यथा = as if
- आदाय = (दृष्टिम्) आकृष्य (क्रन्दनम्) = the voice having pulled the vision
- नग-इन्द्र-सक्ताम् = पर्वते स्थापिताम् (दृष्टिम्) = (the vision that was) focused on the mountain
- निवर्तयामास = (दृष्टिम्) परावर्तितवत् (क्रन्दनम्) = the sound pulled the vision
- नृपस्य = दिलीपस्य = of Dilipa's
- दृष्टिम् = दर्शनम् = the vision, seeing
Comments
Post a Comment