Posts

Showing posts from June, 2024

2.23

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः। दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥ २-२३ गुरोः = दिलीपस्य गुरोः वशिष्ठस्य = of Vashishta, guru of Dilipa स-दारस्य = दारेण(भार्यया सुदक्षिणया) सहितस्य वशिष्ठस् निपीड्य पादौ = (गुरोः) चरणौ गृहीत्वा वन्दनार्थम् दिलीपः= Dilipa touched his mentor's feet out of humility समाप्य = (पूजार्चनम्) पूर्णं कृत्वा सान्ध्यम् च विधिम् = सायङ्कालिकम् पूजार्चनम् दिलीपः = King Dilipa दोह-अवसाने = दोहनस्य अन्ते पुनः एव = भूयः = again दोग्ध्रीम् = दुग्धम् ददाति या ताम् धेनुम् = the cow Nandini that gives milk भेजे = दिलीपः सेवां कृतवान् = Dilipa served भुज-उच्छिन्न-रिपुः = येन स्वरिपूणां भुजाः उच्छिन्नाः(नष्टाः) सः दिलीपः = Dilipa who destroyed the arms of his enemies निषण्णाम् = उपविष्टाम् = the seated Nandini दिलीपः वसिष्ठस्य पादस्पर्शम् अकरोत्। वसिष्ठस्य पत्न्याः अरुन्धत्याः अपि पादस्पर्शम् अकरोत्। सायङ्कालिकम् पूजार्चनं पूर्णम् अकरोत्। दोहनात् पश्चात् नन्दिनी उपविष्टवती। तदानन्तरं पुनः तस्याः सेवां कर्तुम्...

2.22

वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननदुतुस्तौ। भक्त्योपपन्नेषु हि तद्विधानानां प्रसादचिह्नानि पुरःफलानि॥ २-२२ वत्स-उत्सुका अपि = वत्सं प्रति उत्सुका अपि = despite being excited to see her child स्तिमिता = निर्व्याकुलतया नन्दिनी = the calm Nandini सपर्याम् प्रत्यग्रहीत् सा इति = पूजां स्वीकृतवती नन्दिनी = accepted the worship इति ननदुतुः तौ =  एवम् तौ आनन्दं प्राप्तवन्तौ = Dilipa and Sudakshina found happiness seeing this भक्त्या = श्रद्धया = by piety उपपन्नेषु = प्राप्तेषु = in those that were gained हि = एव = indeed तत्-विधानानाम् = तादृशीनाम् = of such things प्रसाद-चिह्नानि = प्रसन्नतायाः लक्षणानि = marks of happiness पुरःफलानि = साफल्यस्य आश्वासनम् ददति यानि तानि = those which promise success वत्सं प्रति उत्सुका सती अपि सा नन्दिनी  निर्व्याकुलतया पूजां स्वीकृतवती। सुदक्षिणा दिलीपः च आनन्दितौ अभवताम्। श्रद्धया एव प्राप्तानि तादृशानाम् प्रसन्नतायाः लक्षणानि साफल्यस्य आश्वासनम् ददति।

2.21

प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता। प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः॥ २-२१ प्रदक्षिणीकृत्य = (नन्दिन्याः) प्रदक्षिणं कृत्य = having circumabulated Nandini पयस्विनीम् = धेनुं नन्दिनीम् = THe cow nandini ताम् = नन्दिनीम् = Nandini सुदक्षिणा = दिलीप-पत्नी = Dilipa's wife स-अक्षत-पात्र-हस्ता = अक्षतेन युक्तं पात्रं यस्याः हस्ते सा सुदक्षिणा = sudaksina who held a plate of rice on her hands प्रणम्य = नमस्कृत्य = having saluted च आनर्च = अपि पूजितवती = also worshipped विशालम् = महत् = big अस्याः = नन्दिन्याः = of Nandini शृङ्गान्तरम् = शृङ्गयोः मध्यम-भागम् = the region between the two horns द्वारम् इव अर्थसिद्धेः = कल्याणस्य द्वारम् यथा =  as if it was the doorway to prosperity सुदक्षिणा अक्षतेन युक्तं पात्रं हस्ते गृहीत्वा नन्दिन्याः प्रदक्षिणं कृत्य नमस्कृत्य पूजितवती। शृङ्गयोः मध्यम-भागम् पूजितवती यथा तत् कल्याणस्य द्वारम् आसीत्।