2.32

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः। राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः॥२-३२॥

  • बाहु-प्रतिष्टम्भ-विवृद्धमन्युः = बाह्वोः प्रतिष्टम्भेन विवृद्धः मन्युः यस्य सः = Dilipa who was angry at his arm being constrained
  • अभ्यर्णम् = सामिप्यम् = near
  • आगस्कृतम् = आगः करोति यः तम् अपराधिनम् = wrongdoer
  • अस्पृशद्भिः = ये न स्पृशन्ति तैः अस्पर्शकरैः =
  • राजा = राजा दिलीपः = The King Dilipa
  • स्वतेजोभिः = स्व-पराक्रमैः = due to his valour
  • अदह्यत = दह्यते स्म = Dilipa blazed
  • अन्तः = अभ्यन्तरम् = internally
  • भोगी = सर्पः = snake
  • इव = यथा = as if
  • मन्त्र-औषधि-रुद्धवीर्यः = मन्त्रैः औषधिभिः रुद्धः(स्तम्भिता) यस्य वीरता सः सर्पः = the snake whose courage is constrained by spells and herbs

दिलीपः क्रुद्धः आसीत्। यतोहि तस्य हस्तः स्तम्भितः जातः। मन्त्रैः औषधिभिः रुद्धः(स्तम्भिता) यस्य वीरता सर्पः इव आसीत् दिलीपः। स्वपराक्रमैः दिलीपस्य अन्तर्दहनं जातम् यतोहि समीपे सत्यपि अपराधिनं सिंहं प्रहर्तुं न शक्तवान्।

 

Comments

Popular posts from this blog

2.22

2.35

2.24