2.40

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः। शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति॥२-४०॥
  • सः त्वम् = त्वं दिलीपः = You Dilipa
  • निवर्तस्व = परावृतीभव = return
  • विहाय लज्जाम् = लज्जाम् त्यक्त्वा = leaving shame
  • गुरोः = वसिष्ठस्य = of guru Vashishta
  • भवान् = त्वम् = you
  • दर्शित-शिष्य-भक्तिः = दर्शिता शिष्यस्य भक्तिः येन सः = the respect shown by a disciple such as yourself
  • शस्त्रेण = आयुधेन = by a weapon
  • रक्ष्यम् यत् = रक्षणीयम् वस्तु = that which needs to be protected
  • अशक्य-रक्षम् = रक्षितुम् अशक्यम् = something that is unable to be protected
  • न = not
  • तत् यशः = कीर्तीम् = that fame
  • शस्त्र-भृताम् = आयुध-धारिणम् =
  • क्षिणोति = हिनस्ति = harm
दिलीप त्वं लज्जां त्यक्त्वा प्रत्यागच्छ। त्वं गुरुं प्रति तव भक्तिं प्रदर्शितवान्। किन्तु रक्षणीयम् वस्तु आयुधेन न रक्षति चेत् आयुध-धारिणः कीर्तिः न नश्यति।

Comments

Popular posts from this blog

2.22

2.35

2.24