2.34
अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात्।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य॥२-३४॥
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य॥२-३४॥
- अलम् महीपाल तव श्रमेण = हे राजन् इतोऽपि श्रमः मास्तु = enough effort o king
- प्रयुक्तम् अपि = निक्षिप्तम् अपि = released
- अस्त्रम् = आयुधम् = weapon
- इतः = अस्मिन् मयि = on me
- वृथा =व्यर्थम् = futile
- स्यात् = भवेत् = may be
- न = नहि = not
- पादप-उन्मूलन-शक्ति = वृक्षम् उत्पाटयितुम् समर्थम् = that which capable of uprooting trees
- रंहः = वेगः = speed
- शिल-उच्चये = उच्च-पर्वते = on the high mountain
- मूर्च्छति = प्रसरति = to flow
- मारुतस्य = पवनस्य = of the wind
हे राजन् इतोऽपि श्रमः मास्तु। प्रयुक्तम् अस्त्रम् वृथा भवेत्। वृक्षम् उत्पाटयितुम् समर्थे सत्यपि उच्च-पर्वते न प्रसरेत् इति सिंहः अवदत्।
Comments
Post a Comment