2.22

वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननदुतुस्तौ। भक्त्योपपन्नेषु हि तद्विधानानां प्रसादचिह्नानि पुरःफलानि॥ २-२२
  • वत्स-उत्सुका अपि = वत्सं प्रति उत्सुका अपि = despite being excited to see her child
  • स्तिमिता = निर्व्याकुलतया नन्दिनी = the calm Nandini
  • सपर्याम् प्रत्यग्रहीत् सा इति = पूजां स्वीकृतवती नन्दिनी = accepted the worship
  • इति ननदुतुः तौ =  एवम् तौ आनन्दं प्राप्तवन्तौ = Dilipa and Sudakshina found happiness seeing this
  • भक्त्या = श्रद्धया = by piety
  • उपपन्नेषु = प्राप्तेषु = in those that were gained
  • हि = एव = indeed
  • तत्-विधानानाम् = तादृशीनाम् = of such things
  • प्रसाद-चिह्नानि = प्रसन्नतायाः लक्षणानि = marks of happiness
  • पुरःफलानि = साफल्यस्य आश्वासनम् ददति यानि तानि = those which promise success
वत्सं प्रति उत्सुका सती अपि सा नन्दिनी  निर्व्याकुलतया पूजां स्वीकृतवती। सुदक्षिणा दिलीपः च आनन्दितौ अभवताम्। श्रद्धया एव प्राप्तानि तादृशानाम् प्रसन्नतायाः लक्षणानि साफल्यस्य आश्वासनम् ददति।

Comments

Popular posts from this blog

2.35

2.24