2.23
गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः। दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥ २-२३
- गुरोः = दिलीपस्य गुरोः वशिष्ठस्य = of Vashishta, guru of Dilipa
- स-दारस्य = दारेण(भार्यया सुदक्षिणया) सहितस्य वशिष्ठस्
- निपीड्य पादौ = (गुरोः) चरणौ गृहीत्वा वन्दनार्थम् दिलीपः= Dilipa touched his mentor's feet out of humility
- समाप्य = (पूजार्चनम्) पूर्णं कृत्वा
- सान्ध्यम् च विधिम् = सायङ्कालिकम् पूजार्चनम्
- दिलीपः = King Dilipa
- दोह-अवसाने = दोहनस्य अन्ते
- पुनः एव = भूयः = again
- दोग्ध्रीम् = दुग्धम् ददाति या ताम् धेनुम् = the cow Nandini that gives milk
- भेजे = दिलीपः सेवां कृतवान् = Dilipa served
- भुज-उच्छिन्न-रिपुः = येन स्वरिपूणां भुजाः उच्छिन्नाः(नष्टाः) सः दिलीपः = Dilipa who destroyed the arms of his enemies
- निषण्णाम् = उपविष्टाम् = the seated Nandini
दिलीपः वसिष्ठस्य पादस्पर्शम् अकरोत्। वसिष्ठस्य पत्न्याः अरुन्धत्याः अपि पादस्पर्शम् अकरोत्। सायङ्कालिकम् पूजार्चनं पूर्णम् अकरोत्। दोहनात् पश्चात् नन्दिनी उपविष्टवती। तदानन्तरं पुनः तस्याः सेवां कर्तुम् कृतवान् दिलीपः।
Comments
Post a Comment