2.21

प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता। प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः॥ २-२१
  • प्रदक्षिणीकृत्य = (नन्दिन्याः) प्रदक्षिणं कृत्य = having circumabulated Nandini
  • पयस्विनीम् = धेनुं नन्दिनीम् = THe cow nandini
  • ताम् = नन्दिनीम् = Nandini
  • सुदक्षिणा = दिलीप-पत्नी = Dilipa's wife
  • स-अक्षत-पात्र-हस्ता = अक्षतेन युक्तं पात्रं यस्याः हस्ते सा सुदक्षिणा = sudaksina who held a plate of rice on her hands
  • प्रणम्य = नमस्कृत्य = having saluted
  • च आनर्च = अपि पूजितवती = also worshipped
  • विशालम् = महत् = big
  • अस्याः = नन्दिन्याः = of Nandini
  • शृङ्गान्तरम् = शृङ्गयोः मध्यम-भागम् = the region between the two horns
  • द्वारम् इव अर्थसिद्धेः = कल्याणस्य द्वारम् यथा =  as if it was the doorway to prosperity
सुदक्षिणा अक्षतेन युक्तं पात्रं हस्ते गृहीत्वा नन्दिन्याः प्रदक्षिणं कृत्य नमस्कृत्य पूजितवती। शृङ्गयोः मध्यम-भागम् पूजितवती यथा तत् कल्याणस्य द्वारम् आसीत्।

Comments